ॐ स्वस्ति श्री समस्त जगदुत्पत्तिस्थितिलयकारणस्य रक्षा–शिक्षा–विचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनन्तवीर्यस्यादि नारायणस्य अचिन्त्यापरिमितशक्त्या ध्रियमाणानां महाजलौघमध्ये परिभ्रमताम् अनेककोटि ब्रह्माण्डानाम् एकतमे अव्यक्त–महदहंकार–पृथिव्यप्तेजो वाय्वाकाशाद्यावरणैरावृते अस्मिन् महति ब्रह्माण्डखण्डे आधारशक्तिश्रीमदादि–वाराह–दंष्ट्राग्र–विराजिते कूर्मानन्त–वासुकि–तक्षक–कुलिक कर्कोटक–पद्म–महापद्म–शङ्खाद्यष्ट महानागैर्ध्रियमाणे एरावत–पुण्डरीक–वामन–कुमुदाञ्जन–पुष्पदन्त–सार्वभौम–सुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानाम् अतल–वितल–सुतल–तलातल–रसातल–महातल–पाताल–लोकानामुपरिभागे पुण्यकृन्निवासभूत भूर्लोक–भुवर्लोक–स्वर्लोक–महर्लोक–जनोलोक–तपोलोक सत्यलोकाख्यसप्तलोकानामधोभागे चक्रवालशैलमहावलयनागमध्यवर्तिनो महाकाल महाफणिराजशेषस्य सहस्त्रफणामणिमण्डलमण्डिते दिग्दन्तिशुण्डादण्डोद्दन्डिते अमरावत्यशोकवती भोगवती–सिद्धवती–गान्धर्ववती–काञ्ची–अवन्ती अलकावती यशोवतीतिपुण्यपुरीप्रतिष्ठि ते लोकालोकाचलवलयिते लवणेक्षु–सुर सर्पि–दधि–क्षीरोदकार्णवपरिवृते जम्बू–प्लक्ष–कुश–क्रोञ्च–शाक शाल्मलिपुष्कराख्यसप्तद्वीपयुते इन्द्र–कांस्य–ताम्र–गभस्ति–नाग–सोम्य–गन्धर्व–चारणभारतेतिनवखण्डमण्डिते सुवर्णगिरिकर्णिकोपेतमहासरोरुहाकारपञ्चाशत् कोटियोजनविस्तीर्णभूमण्डले अयोध्या मथुरा–माया–काशी–काञ्ची–अवन्तिकापुरी–द्वारावतीतिमोक्षदायिकसप्तपुरीप्रतिष्ठिते सुमेरु निषधत्रिकूट–रजतकूटाम्रकूट–चित्रकूट–हिमवद्विन्ध्याचलानां महापर्वत प्रतिष्ठिते हरिवर्षकिं पुरुषभारतवर्षयोश्च दक्षिणे नवसहस्रयोजन विस्तीर्णे मलयाचल–सह्याचल विन्ध्याचलानामुत्तरे स्वर्णप्रस्थ–चण्डप्रस्थ–चान्द्र–सूक्तावन्तक–रमणक–महारमणक–पाञ्चजन्य–सिंहल–लङ्केति–नवखण्डमण्डिते गंगा–भागीरथी–गोदावरी–क्षिप्रा–यमुना–सरस्वती–नर्मदा–ताप्ती–चन्द्रभागा–कावेरी–पयोष्णी–कृष्णा–वेण्या–भीमरथी–तुंगभद्रा ताम्रपर्णी–विशालाक्षी–चर्मण्वती–वेत्रवती–कौशिकी–गण्डकी–विश्वामित्रीसरयूकरतोया–ब्रह्मानन्दामहीत्यनेकपुण्यनदीविराजिते दण्डक–विन्ध्यक–चम्पक–बदरिक–महीलांगुहेक्षुक नैमिष–कदलिक देवदार्वाख्यदशारण्ययुते भारतवर्षे सकल देवतानां निवासभूमौ,वेदभूमौ श्रीभगवतो महापुरुषस्य नाभिसरोरुहादुत्पन्नस्य तदाज्ञया प्रवर्तमाने सकलजगत्स्रष्टुः परार्धद्वयजीविनो ब्रह्मणः प्रथमे परार्धे पंचाशदब्दात्मिके व्यतीते द्वितीये परार्धे रथन्तरादिद्वात्रिंशतकल्पानांमध्ये अष्टमे श्वेतवाराहकल्पे प्रथमे वर्षे प्रथम मासे प्रथम पक्षे प्रथमे दिवसे अह्नि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव स्वारोचिषोत्तम् तामस रैवत चाक्षुषाख्येषु षट्सु मनुषु व्यतीतेषु सप्तमे वैवस्वतमन्वन्तरे कृत त्रेताद्वापरकलिसंज्ञकानां चतुर्णां युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे प्रथमे पादे महर्षि ज्ञानयुगीयवैदिकविश्वप्रशासनस्य राजधान्यां पूर्णभूमौ,भारतवर्षस्य ब्रह्मस्थाने,महर्षि वेद विज्ञान विश्व विद्यापीठ परिसरे चान्द्र सौरसावनमानानां प्रभवादि षष्ठि सम्वत्सराणां मध्ये_________सम्वत्सरे________उत्तरसहस्रद्वयपरिमिते वैक्रमाब्दे____________उत्तर एकोनविंशतिशततमे शालिवाहन शकाब्दे________उत्तर एक पञ्चाशच्छततमेयुधिष्ठिर सम्वत्सरे उत्तर पञ्चविंशतिशततमे आद्यशङ्कराचार्य सम्वत्सरे महर्षि ज्ञानयुगीय__________सम्वत्सरे________अयने________ऋतो_______मासे_______पक्षे________तिथौ______वासरे_______नक्षत्रे________योगे_________करणे________राशिस्थितेश्रीचन्द्रे________रशिस्थितेश्रीसूर्ये_________रशिस्थितेश्रीभौमे_________रशिस्थितेश्रीबुधे_________रशिस्थितेश्रीदेवगुरौ_________रशिस्थितेश्रीशुक्रे_________रशिस्थितेश्रीशनौ_________रशिस्थितेश्रीराहौ_________रशिस्थितेश्रीकेतौ एवं ग्रहगणगुणविशेषण विशिष्टायां पुण्यायां पुण्यकालेमहापुण्य शुभतिथौ_____________