शिव पञ्चाक्षर स्तोत्रम्

शिव पञ्चाक्षर स्तोत्रम्


नागेन्द्रहारायत्रिलोचनायभस्माङ्गरागायमहेश्वराय।

नित्यायशुद्धायदिगम्बरायतस्मैनकारायनम:शिवाय॥1॥


मंदाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय।

मण्दारपुष्पबहुपुष्पसुपूजितायतस्मैमकारायनम:शिवाय॥2॥


शिवायगौरीवदनाब्जवृन्दसूर्यायदक्षाध्वरनाशकाय।

श्रीनीलकण्ठायबृषध्वजायतस्मैशिकारायनम:शिवाय॥3॥

वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्कवैश्वानरलोचनायतस्मैवकारायनम:शिवाय॥4॥


यक्षस्वरूपायजटाधरायपिनाकहस्तायसनातनाय।

दिव्यायदेवायदिगम्बरायतस्मैयकारायनम:शिवाय॥5॥


पञ्चाक्षरिमदंपुण्यंय:पठेच्छिवसन्निधौ।

शिवलोकमवाप्नोतिशिवेनसहमोदते॥6॥